हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Tripuropanishad – त्रिपुरोपनिषत्
ओं वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासिः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः ॥
तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः सन्निविष्टाः ।
अधिष्ठायैनामजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १ ॥
नवयोनीर्नवचक्राणि दीधिरे नवैवयोगा नवयोगिन्यश्च ।
नवानां चक्रे अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥ २ ॥
एका सा आसीत् प्रथमा सा नवासीदासोन विंशदासोनत्रिंशत् ।
चत्वारिंशदथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ ३ ॥
ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिरश्चीनमजरं तद्रजोऽभूत् ।
आनन्दनं मोदनं ज्योतिरिन्द्रो रेता उ वै मण्डला मण्डयन्ति ॥ ४ ॥
तिस्रश्च रेखाः सदनानि भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः ।
एतत्पुरं पूरकं पूरकाणामत्र प्रथते मदनो मदन्या ॥ ५ ॥
मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता ।
लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ ६ ॥
इमां विज्ञाय सुधया मदन्ति परिस्रुता तर्पयन्तः स्वपीठम् ।
नाकस्य पृष्ठे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ ७ ॥
कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
पुनर्गुहा सकला मायया च पुरुच्येषा विश्वमातादिविद्या ॥ ८ ॥
षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमादेशयन्तः ।
कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९ ॥
त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले ।
बृहत्तिथीर्दशपञ्चादिनित्या सा षोडशी पुरमध्यं बिभर्ति ॥ १० ॥
द्वा मण्डलाद्वा स्तना बिंबमेकं मुखं चाधस्त्रीणि गुहा सदनानि ।
कामीं कलां काम्यरूपां विदित्वा नरो जायते कामरूपश्च काम्यः ॥ ११ ॥
परिस्रुतं झषमाद्यं पलं च भक्तानि योनीः सुपरिष्कृतानि ।
निवेदयन् देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेति ॥ १२ ॥
सृण्येव सितया विश्वचर्षणिः पाशेन प्रतिबध्नात्यभीकान् ।
इषुभिः पञ्चभिर्धनुषा विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३ ॥
भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् ।
समप्रधानौ समसत्त्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ॥ १४ ॥
परिस्रुता हविषा पावितेन प्रंसकोचे गलिते वैमनस्कः ।
शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ १५ ॥
इयं महोपनिषत् त्रिपुराया यामक्षरं परमे गीर्भिरीट्टे ।
एषर्ग्यजुः परमेतच्च सामेवायमथर्वेयमन्या च विद्याम् ॥ १६ ॥
ओं ह्रीं ओं ह्रीं इत्युपनिषत् ॥
ओं वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासिः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः ॥
इति त्रिपुरोपनिषत् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.